माधवीया धातुवृत्तिः | Maadhaviya Dhaatu-Vritti | The Madhaviya Commentary on Sanskrit Verb Roots
Original price was: ₹1,000.00.₹999.00Current price is: ₹999.00.
यह ग्रंथ संस्कृत धातुओं की धातुवृत्ति का प्रमाणिक शास्त्रीय विवेचन प्रस्तुत करता है। धातुपाठ के विभिन्न वर्गों — भ्वादि, अदादि, जुहोत्यादि, दिवादि, तुदादि, क्र्यादि इत्यादि — के अर्थ व प्रयोग को स्पष्टता से समझाने में यह सहायक है। पाणिनीय व्याकरण-अध्ययन एवं रूप-निर्माण की प्रक्रिया को सरल बनाता है। विद्यार्थियों, शोधार्थियों और अध्यापकों हेतु अत्यंत उपयोगी। This text provides an authoritative explanation of the semantic functions of Sanskrit verb roots, clarifying their classification and usage under traditional Paninian grammar. It greatly supports learning of root forms and derivative structures.
Description
अथेह प्रस्तूयते माधवीयाया धातुवृत्तेरभिनवं संस्करणं शब्दविदां पुरतः । तत्र यद्यपि द्वित्राणि संस्करणान्यस्य ग्रन्थरत्नस्य सुलभानि सन्ति, तथापि तानि प्रमादबहुलानीति निपुणमभिसमीक्ष्याष्टाभ्यो वर्षेभ्यः पूर्वं पदवाक्यप्रमाणज्ञा महामहोपाध्यायाः श्रीयुधिष्ठिरमीमांसकपादाः काशिका माधवीयधातुवृत्त्योरादर्शसंस्करणयोः प्रकाशनं मयि न्यास्यन्त । अहं च वर्षद्वयेन काशिका सम्पाद्य प्रकाश्य चांशतोऽनृणमात्मानमन्वभवम् । अद्य पुनरन्यदपि ग्रन्थरत्नं माधवीयां धातुवृत्तिं यथाबुद्धि सम्पाद्य प्रकाश्य च परं सन्तोषमनुभामि । श्रद्धेयवराः श्रीमीमांसकाः पाणिनीयव्याकरणस्यानुपमा विद्वांस आसन् । ते तत्रभवन्तः सूत्रवृत्ति – धातुव्याख्यानयोः काशिका-माधवीयधातुवृत्ती मूर्धन्ये इत्यातिष्ठन्त । अत एवानयोर्ग्रन्थयोस्तेषां पक्षपात आसीत् । पाणिनीयो धातुपाठः प्राचीनाचार्याः स्वशब्दानुशासनानां प्रवचनैः सार्धं तत्खिलभूतानां धातुपाठानां प्रवचनान्यपि चक्रुरित्यापिशलि-काशकृत्स्नादीनां केषाञ्चिद् धातुपाठोपलब्धेः सुतरां सिध्यति । अत एव पाणिनीयतन्त्रे प्रचलितो धातुपाठः पाणिनिना प्रोक्त इति सर्वैः स्वीक्रियते । न्यासकारादयस्तु केचिद् विद्वांसः सूत्रकार – गण – (धातुपाठ) -कारयोर्भेदमास्थितवन्तः । एतेषां भ्रान्तेः कारणं कृतिप्रवचनयोभेर्दस्याज्ञानम् आसीदित्याचार्याः । सर्वमेव प्राचीनशास्त्रीयवाङ्मयं यत् सम्प्रत्युपलभ्यते तत् प्रवचनरूपं न तु कृतिरूपमित्यवधेयम् । कृतिर्हि नाम सर्वा वर्णानुपूर्वी ग्रन्थकारबुद्धिप्रसूता भवति । प्रवचनं पुनः प्राचीनाचार्यवचनानां ग्रन्थकारबुद्धया परिष्कृतानां समायोजितानां च समूहविशेषः । अत एव प्रवचनेषु विरुद्धांशो निरर्थकांशी वाप्युपलभ्यते । स च विभिन्नस्रोतोभ्यः संगृहीत इति न दोषावहः । अयं विषयः श्रीयुधिष्ठिरमीमांसकप्रणीते ‘संस्कृत ‘व्याकरणशास्त्र का इतिहास’ इत्यभिधे ग्रन्थे विस्तरेण विव्रियते । संदिहन्ति ।
Additional information
| Weight | 1600 g |
|---|---|
| Dimensions | 25 × 17 × 6 cm |
Only logged in customers who have purchased this product may leave a review.




Reviews
There are no reviews yet.