Sale!

Paniniashtadhyayisutravrttih Kaashika

Original price was: ₹1,000.00.Current price is: ₹900.00.

Description

अथ प्रस्तूयते ‘ काशिका नाम्नः सुमहतो ग्रन्थस्य नूतनं संस्करणं पुरस्तात् शब्दविदाम् । अनेकवर्षशतैः सुतरां व्यकिरद ग्रन्थरत्नमिदं स्वकीयान् प्रोज्ज्वलान् ज्ञानरश्मीन् विमलेन्दुरिव व्याकरणनभोमण्डले । कालचक्रवशात् सूत्रक्रमानुसारी ग्रन्थचन्द्रोऽयं दुर्ग्रस्त इवाजायत प्रक्रियानुसारिभिर्ग्रन्थराहुभिः । तत उपचतुवत्सरशतानन्तरं पुनरुददीधरन् इमं ग्रन्थतल्लजं सूत्रक्रमानुयायिनः सूरयः । तदैतिह्यं तावत् समासतोऽधस्ताद् उदीर्यते । वेदाङ्ग-प्रवृत्तिः निरुक्तकृद् आचार्यो यास्कः स्वशास्त्रम् अवतारयन् पुरावृत्तं संक्षिपति’साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान् सम्प्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुर्वेदं च वेदाङ्गानि च’ (निरु० १.२० ) इति । त्रयः खल्वत्र कालविभागाः परिलक्ष्यन्ते – दर्शनकालः, सम्प्रदानकालः, समाम्नानकालश्चेति । तत्र प्रथमे तावद् दर्शनकालविभागे नीरजस्तमसो महर्षयः सार्थान् मन्त्रान् ददृशुः सर्गारम्भे । कालान्तरे तु द्रष्टारो महर्षयः स्वापेक्षयाल्पसामर्थ्येभ्यः श्रुतर्षिभ्यो मौखिकेनोपदेशेन मन्त्रान् तदर्थांश्च सम्प्रादुः । तस्मिन् कालविभागे चरणाभिधाः सम्प्रदायाः प्रादुरभूवन्। अथान्तिमे कालविभागे भारतयुद्धाद् नातिविप्रकृष्टे कालखण्डे सार्थान् मन्त्रान् चिरं धारयितुमसमर्थान् जनान् दर्शदर्शं कृपायमाणा आचार्याः सब्राह्मणाः शाखा वेदाङ्गानि च षड् ग्रन्थरूपेण समदृभन् । इत्थं च वेदाङ्गप्रवृत्तिः स्वरूपार्थयोः संरक्षणार्थं वेदानां जाता। तथा चाह पतञ्जलिः – ‘रक्षार्थं वेदानामध्येयं व्याकरणम्’ (महाभाष्यपस्पशा) इति । वेदाङ्गत्वं च नाम वेदोपकारकत्वम्, न तु साक्षात् चक्षुरादिवद् वेदशरीरावयवत्वम् । षण्णां वेदाङ्गानां नामग्राहं प्राचीनतम उल्लेख मुण्डकोपनिषदि ( १. १.५ ) उपलभ्यते—‘तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति’ ।

Additional information

Weight 1600 g
Dimensions 24 × 16 × 6 cm

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.