Sale!

Presentation of Vedic Literature Nirukta-samucchaya acharya-vararuchi-

Original price was: ₹300.00.Current price is: ₹200.00.

श्रयि सुरभारतीसुधारसास्वादनतत्परा महानुभावाः ! भवतां पुरस्तान्निरुवतसमुच्चयनामा ग्रन्थो मुद्रापयित्वा समुपस्थाप्यते । धस्मिन् ग्रन्थ श्राचार्यवररुचिना नैरुक्तप्रक्रियामवलम्ब्य यमखब्रह्म-(१०२), परिमिता मन्त्रा व्याख्यायन्ते । अयं ग्रन्यः स्कन्दस्वामिकृतनिरुक्त-टीकती बहुत्र शब्दशः संवदति। तद् दृष्ट्वैतदनुमातु शक्यते यदयं वररुचिर्वा प्राक्तनः स्यात् स्कन्दस्वामी वा । यदचप्युभयोः पौर्वापर्यनिश्चायाय नास्ति किञ्चिद् दृढतरं प्रमाणम्, तथाप्येकत्र निरुक्तटीकायामुर्वशीपदव्याख्याने -‘धन्त्र च नित्यपक्षे केचिद् उर्वशी विद्युद्, वायुः पुरुरवा इति मन्यन्ते । सा च उरु धन्तरिक्षमश्नुते प्रभया” इति [निरु० टी०भा० ३ पृ० ३४३] स्कन्दस्वामिग्रन्थदर्शनादनुमातुं शक्यते यदयमत्र ‘केचिद्’ इतिपदेन वररु-चिमेव स्मरतीति । एवं हि तद्मन्थ- “नैरुक्तपक्षे तु – पुरुरवा मध्यमस्थानो वाय्वादीनामेकतमः, पुरु रौतीति पुरुरवा । उर्वशी विद्युत्, उरु विस्तीर्ण-मन्तरिक्षमश्नुते दीव्यत इत्युवंशी” इति [निरु० समु० पृ० ७१]’। स्कन्दस्वामिनश्च कालो विक्रमस्य सप्तमशताब्दधाश्चरमो भाग इत्येतिह्यविदः प्रतिजानते [द्र० – वैदिक वाङ्‌मय का इति० भा० १ खं० २१०१-२४]। श्रतस्तस्मादयं पौर्वकालिक इत्येव वक्तु शक्यते । निरुवतरामुच्चयकृदाचार्यवररुचिर्नैरुक्तप्रक्रियानुसारं वेदेष्वैतिह्यं न मनुते। तथा ह्यक्तम् – “श्रौपचारिकोऽयं मन्त्रेष्वाख्यानसमयो नित्यत्व-विरोधात् । परमार्थेन तु नित्यपक्ष एवेति नैरुक्तानां सिद्धान्तः” इति [निरु०

Additional information

Weight 250 g
Dimensions 22 × 14 × 2 cm

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.