Sale!

Ashtadhyayi Sutrapatha

Original price was: ₹200.00.Current price is: ₹180.00.

बहूनि व्याकरणतन्त्राणि प्रोक्तानि बहुभिर्महर्षिभिर्भगवतः पाणिनेः प्रागपि, किन्तु तत्र न विद्यते साङ्ङ्गत्वम् । सूत्रपाठो, धातुपाठो, गणपाठ, उणादिपाठो लिङ्‌ङ्गानुशासनञ्चेति मिलित्वा पञ्चाङ्गं भवति व्याकरणम्। तच्चास्ति पाणिनीये। अथ च वैदिकशब्दानामनुशासनाद् वेदाङ्गत्वमपि। अतश्च प्राचीनेषु सकलेषु व्याकरणशास्त्रेषु पाणिनीयं व्याकरणं प्राधान्यं भजते । द्वादशशताब्द्याः प्राङ्‌ नैकोऽपि प्रक्रियाग्रन्थ आसीत्। तदा शास्त्राणां, महाकाव्यानां च प्रणेतारोऽपि पाणिन्यादीनामाचार्याणां ग्रन्थक्रमेणैव व्याकरणमधीत्यापारशब्दशास्त्रपारं जग्मुः । प्रक्रियाग्रन्थानां प्रणेतारोऽष्टाध्यायीं पुरस्कृत्याष्टाध्यायीसाधनायैव प्रक्रियाग्रन्थान्
विरचयामासुः । अतश्च लिखितवन्तो भ‌ट्टोजिदीक्षितमहाभागाः सिद्धान्तकौमुद्या लौकिक- – भागस्यान्ते
इत्थं लौकिकशब्दानां दिङ्‌मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं द्रष्टव्यं शब्दकौस्तुभे ।।
सर्वथा सत्यमिदं वचनं, यतः प्रक्रियाग्रन्थेषु सूत्रस्य तावानेवार्थः प्रकाशमेति यावतेष्टप्रयोगसिद्धिः संजायते। अवशिष्टार्थस्तु बुद्धिगम्य एवावसीयते ।
अतश्च यथाष्टाध्यायीं पुरस्कृत्य प्रक्रियाग्रन्था विरचितास्तथैवाष्टाध्यायीं पुरस्कृत्यैव तेऽध्येतव्या अपि। किन्तु प्रक्रियाग्रन्थानामवतारानन्तरं राष्ट्रेऽस्मिन्नपूर्वः कोऽषि क्रमः प्रादुरभूत्, यत्र पाणिन्यष्टाध्यायीमनवलोक्यैव सर्वं पाणिनीयशास्त्रमधीयते। अत्रैकैकं प्रयोगं पुरस्कृत्य तत्साधनाय सर्वाणि सूत्राण्युपस्थाप्यन्ते, बहुभिश्च तैः सूत्रैरेक एव प्रयोगः साध्यते । तान्येव सूत्राणि यद्यष्टाध्यायीं विज्ञाय पठ्येरन्, तदा तैरेव सूत्रैरनन्तः शब्दराशिः साधयितुं शक्येत । अतश्च पुना राष्ट्रेऽस्मिन्नष्टाध्यायीसूत्रपाठेन पदं न्यधायि ।
दुश्चरतपसा भगवान् पाणिनिर्निखिललौकिकवैदिकशब्दराशेः प्रत्यक्षमेककाला- – वच्छेदेन कृत्वा प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेनापूर्वमिदं शास्त्रं कृतवान्, येनाखिला लौकिका, वैदिकाश्च शब्दा अल्पीयसा कालेन सिध्यन्ति ।
अष्टाध्यायीविषयास्त्रिषु भागेषु विभक्ताः प्रतीयन्ते
१. प्रथमद्वितीयाध्याययोः वाक्येभ्यः पदानां संकलनम् ।
२. तृतीयचतुर्थपञ्चमाध्यायेषु पदानां प्रकृतिप्रत्ययविभागः ।
३. षष्ठसप्तमाष्टमाध्यायेषु प्रकृति-प्रत्ययैः सह आगमादेशादीनां संयोजनेन परिनिष्ठितपदानां निर्माणञ्च ।
यथा भगवान् भास्करोऽखिलं विश्वं प्रकाशयति तथैव पाणिनेरेकैकं सूत्रमप्यखिलं लौकिक वैदिकशब्दराशिं प्रकाशयति ।

Additional information

Weight 325 g
Dimensions 22 × 14 × 2 cm

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.