Sale!

Naamalinganushasanm Naam Amarakosha

Original price was: ₹695.00.Current price is: ₹625.50.

विश्वस्य व्यवहारस्य करणं यन्मतं बुधैः । शब्दब्रह्माभिधं वन्देऽहं तत्सारस्वतं महः ।। श्रीमतोऽनादिनिधनस्य परब्रह्म परमात्मन आसृष्टिसत्तावधि समेऽपि प्राणिनो न केवलमैहिकमेव, अपि तु निरतिशयानन्ददं परमात्मसामीप्यसायुज्यादिरूपं पुरुषार्थचतुष्टय श्रेष्ठतममपारानन्तसंसार महार्णवावागमनजन्यकष्टमुक्तिप्रदं मुक्तिरूपं शाश्वतं सुखमेव सततं कामयन्ते । तदवाप्तिसाधनभूतश्रुतिस्मृत्यादि सच्छाबानुमोदित धर्मकर्मसम्पादनसमथ चतुरशीतियोनिषु परमदुर्लभं नैकपुण्यप्रतापलभ्यं मानवशरीरं समवाप्य स्व-स्वमुक्ति कामा अनेकजन्मसु निरतिशयं प्रयतमानेष्वपि बहुषु प्राणिषु केचन एव तल्लाभेनात्ममानवजन्मनः सार्थक्ये कृतकामाः संजायन्ते । श्रुतिस्मृत्यादिसच्छास्त्रज्ञानं च शब्दार्थलिङ्गादिबोधकसमस्तव्यवहारकारणभूतसत्कोषज्ञानाधीनम् | साकल्येन तज्ज्ञानं च प्रकृतिप्रत्ययतत्तदर्थ बोधकस्वरादिसम्प्रापकव्याकरणज्ञानायत्तम् । तदुक्तं श्रीमद्भगवता पतञ्जलिना महाभाध्ये ‘एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग्भवति’ इति ( पस्पशाह्निकम् ) अन्यत्र च – ‘यद्यपि बहु नाधीषे – पठ पुत्र ! व्याकरणम् | स्वजन: श्वजनो मा भूत् सकलः शकल: सकृच्छकृत् ॥’ इति ।

Additional information

Weight 1093 g
Dimensions 24.5 × 18.5 × 4 cm

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.