Paniniya Vaidika Vyakaranam
Original price was: ₹295.00.₹265.50Current price is: ₹265.50.
अत्र कोऽस्त्यधिकारी – चित्ते दृढमवधार्यमिदं यद् वैदिकव्याकरणमिति
नास्ति किमपि पृथग्व्याकरणम्। न चास्ति वैदिकशब्दानां कृते काचन पृथक् प्रक्रिया। ये लौकिकशब्दाः सन्ति, त एव सन्ति वैदिकाः। यां प्रक्रियामाश्रित्य लौकिकशब्दा सिध्यन्ति, तामेव प्रक्रियामाश्रित्य वैदिका अपि। अतो वैदिकशब्दानां सिद्धिं कर्तुं, वैदिकशब्दानां कृते प्रक्रियाविशेषमवगन्तुं च, स एव प्रभवति, यस्याव्याहतगतिर्भवति लौकिकशब्दानां सिद्धौ। अतः प्रक्रियायाः सम्यगभ्यासं विधायैवात्र प्रवेष्टव्यम् ।
कथं कृता सिद्धान्तकौमुद्या वैदिकीप्रक्रिया ? अष्टाध्याय्यां यत्र ‘भाषायाम्’ इत्युच्यते, तत् भाषायामेव भवति, न वेदे। यत्र ‘छन्दसि “निगमे ” मन्त्रे’ इत्यत्युच्यते, तद् वेद एव भवति, न लोके। यत्र किमपि नोच्यते, तत्तूभयत्र भवति । अष्टाध्याय्यां यत्र ‘छन्दसि’ ‘निगमे’ ‘मन्त्रे’ इत्युच्यते, तादृशानि सूत्राणि सिद्धान्तकौमुद्यनुसारेण २६३ सन्ति। सिद्धान्तकौमुदीकारेणादाविमानि सूत्राण्य- टाध्याय्याः पृथक्कृत्य संकलितानि। अनन्तरं तेषामस्य संकलनस्य संज्ञा’ वैदिकीप्रक्रिया’ इति कृता। तत्र अष्टाध्याय्याः प्रथमाध्यायस्य सूत्रैः वैदिकप्रक्रियायाः प्रथमोऽध्यायः कृतः । अष्टाध्याय्याः द्वितीयाध्यायस्य सूत्रैः वैदिकप्रक्रियायाः द्वितीयोऽध्यायः कृतः। एवञ्च वैदिकीप्रक्रियाया अष्टौ अध्यायाः कृताः। अत्र नास्ति काचन प्रक्रिया, न चास्ति काचन संगतिः। वस्तुत एषां सूत्राणां पाठः सिद्धान्तकौमुद्यास्तत्तत्प्रकरण एव करणीय आसीत्, अथ वा वैदिकप्रक्रियायामेषां सूत्राणां प्रकरणविभागः करणीय आसीत्। स च न कृतः। अतः सिद्धान्तकौमुद्या अध्येतारः प्रक्रियां जानन्तोऽपि न जानन्ति । तेषां कृत एवायं ग्रन्थो विरच्यते। अनावश्यकमेव वैदिकप्रक्रियायामष्टष्वध्यायेषु विभक्तानि सूत्राण्यत्र प्रकरणेषु विभक्तानि । एतैरपि यादि न सिध्यति वैदिकशब्दः, तदा ‘व्यत्ययो बहुलम् (३.१.८५)’ इति व्यत्यय आश्रयणीयः अथ वा ‘षष्ठीयुक्तश्छन्दसि वा (१.४.९)’ इत्यस्य योगविभागः “छन्दसि वा’ इत्याश्रयणीय, इति तु प्राक्कथन उक्तमेव।
हिन्दीभाषान्तर –
कौन है इस ग्रन्थ को पढ़ने का अधिकारी ? पहिले अपने मन में यह निश्चय कर लीजिये कि वैदिकव्याकरण नाम का कोई पृथग् व्याकरण नहीं है, न ही वैदिक शब्दों
Additional information
Weight | 306 g |
---|---|
Dimensions | 22 × 14 × 2 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.