तैत्तिरीय-प्रातिशाख्यम् | Taittiriya Pratishakhyam | Vedic Phonetic Rules of the Taittiriya Tradition
Original price was: ₹30.00.₹27.00Current price is: ₹27.00.
यह ग्रंथ तैत्तिरीय शाखा के वैदिक स्वरों, वर्णों, संधि-नियमों और पाठ-परम्परा का प्रामाणिक प्रतिपादन करता है। वेदपाठ की शुद्धता को बनाए रखने हेतु आवश्यक ध्वनि-विज्ञान, स्वर-चिन्ह, वर्णानुक्रम एवं पठन-प्रक्रिया के सिद्धान्त इस ग्रंथ में विस्तार से मिलते हैं। This classical text presents the phonetic foundations of the Taittiriya Vedic tradition, essential for accurate chanting and preserving the sanctity of Vedic recitation.
Description
वैदिकवाङ्मये कृष्णयजुर्वेदीयायाः संहितायाः स्वकीयं वैशिष्ट्यं वर्त्तत इति नातिरोहितं विदुषाम्। इयं संहिता प्रायेण दाक्षिणात्यैरभ्यस्यते। दक्षिणापथ एवास्याः संस्करणान्यपि यथाकालं प्रकाशितानि । पञ्चत्रिंशद्भ्यो वर्षेभ्यः प्राग् एषा संहिता तदध्येतृणां दुर्लभतां गता। ततो रामलालकपूरन्यासा- ध्यक्षा महामहोपाध्यायाः श्रीयुधिष्ठिरमीमांसकमहाभागा बहुभिस्तैत्तिरीयशाखा- ध्येतृभिः प्रार्थ्यमाना महता परिश्रमेण श्रीश्रीपाददामोदरसातवलेकरसंस्करणं २०३९तमे वैक्रमाब्दे प्रतिकृतिमार्गेणैतां संहितां प्राकाशयन्त। तस्मिन्नेवान्तराले तैत्तिरीयसंहितायाः पदपाठोऽपि दुर्लभतां गतः। तस्य प्रकाशनाय पुनः श्रद्धेयाः श्रीमीमांसकचरणाः प्रार्थिता दाक्षिणात्यैस्तैत्तिरीयशाखाध्यायिभिः। श्रीमीमांसकमहाभागाः स्वकीयसुहृद्वरैः श्रौतिपुङ्गवैनैल्लूरुवासिभिर्विश्वनाथ- महाभागैः सह सम्पर्क व्यधिषत। श्रीविश्वनाथमहाभागास्तैत्तिरीयपदपाठस्य कुम्भघोणसंस्करणस्य स्वकीयं ग्रन्थं श्रीमीमांसकेभ्यः समर्पयन्त। ततः स जीर्णत्वाद् न कृतकारीति विज्ञाय श्रौतिनः श्रीविश्वनाथाः शिमोगानिवासि- श्रीकेशवमूर्तिमहाभागान् तत्संस्करणप्रेषणाय प्रैरयन्। तदेवं ग्रन्थद्वयसाहाय्येन प्रतिकृतिमुद्धृत्य तैत्तिरीयपदपाठप्रकाशने श्रद्धेयाः श्रीयुधिष्ठिरमीमांसकाः सफला अभूवन्।
Additional information
| Weight | 100 g |
|---|---|
| Dimensions | 18 × 12 × 1 cm |
Only logged in customers who have purchased this product may leave a review.




Reviews
There are no reviews yet.