Vyakarana Mahabhashya Mool Maatr Vol 1-2
Original price was: ₹1,500.00.₹1,350.00Current price is: ₹1,350.00.
प्रस्तावना
इह खलु लोकव्यवहारनिर्वहणार्थं भाषैव जुषते प्रधानभावम्। अन्तरेण भाषां लोका न प्रभवन्ति नैजमाशयं प्रकाशयितुम्। अप्रकाशयन्तश्चाशयं कथमिव ते पारयेयुः किञ्चिदनुष्ठातुम्। किञ्चिदनुष्ठातुमशक्नुवतां तेषां कृते सकलं जगदेवान्धकारमयम्भवेत्। अतएव स्पष्टमाचष्ट तत्रभवान् आचार्यप्रवरो दण्डिमहाभागः –
इदमन्धतमः कृत्स्नं जायेत भुवनत्रयम्। यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।। इति।
भाषयापि तया पुनः सुसंस्कृतया भवितव्यम् परत्राशयं सङ्क्रमयितुम्। सुसंस्कृता भाषा च शब्दसाधुत्वमपेक्षते। साधुशब्दा हि प्रयुज्यमाना यथार्थमर्थमर्पयन्ति नासाधुशब्दाः। साधुशब्दप्रयोगे तु व्याकरणाध्ययनं हि प्रधानं प्रयोजकम्। न हि व्याकरणज्ञानरहितः साधुशब्दान् प्रयोक्तुं क्षमः। उक्तञ्च रामायणे-
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरताऽनेन न किञ्चिदपभाषितम् ।।
इत्यनेन हनुमतो वाग्व्यापारेण तस्य व्याकरणपारङ्गतत्वं ध्वनितं भवति। तदेवं व्याकरण- च्युतिपरिहाराय व्याकरणस्याध्ययनं नितरामावश्यकम्। नाऽवैय्याकरणः साधुशब्दप्रयोगे क्षमः, पद्यमिदमित्यपि च सूचयति। आलङ्कारिका अपि च्युतिसंस्कारत्वाख्यं काव्यदोषमाचक्षाणास्त- त्परिहाराय व्याकरणाध्ययनस्यावश्यकत्वमपूपुषन्। आचार्यो वेङ्कटाध्वरोऽपि अमुमेवार्थं विशदयति स्वकीये पद्ये निम्नाङ्किते –
अस्वीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते। कस्मिंश्चिदुक्ते तु पदं कथञ्चित् स्वैरं वपुः स्विद्यति वेपते च ।। तदित्थं व्याकरणस्य परममहत्त्वमुपपादितमाचार्यैरिति ।
व्याकरणस्य च पुनः प्रकृतिप्रत्ययाद्यनुशासनेन पदस्वरूपनिर्णयाय तदर्थनिर्धारणाय च परमोपयोगः। न हि व्याकरणमन्तरा पदपदार्थावबोधः सम्यक् शक्यते सम्भवितुम्। व्याकरणस्य प्रयोजनजातमुद्दिश्य आचार्यो वररुचिरप्याह वार्त्तिकमुखेन – ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम्’ इति। तान्येतानि प्रयोजनान्तराण्यपि भगवत्पतञ्जलिमुनिपादैः प्रपञ्चितानि महाभाष्ये पस्पशाह्निके। ‘रक्षार्थं वेदानामध्येयम् व्याकरणम्। लोपागमवर्णविकारज्ञो हि सम्यग्वेदान् परिपालयिष्यति वेदार्थ- ञ्चाध्यवस्यति । ऊहः खल्वपि न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदमन्त्रा निगदिताः ते चावश्यं यज्ञगतेन विपरिणमयितव्याः। तान्नावैय्याकरणः शक्नोति यथायथं विपरिणमचितुम्। तस्मादध्येयं व्याकरणम्।’ तत्र रक्षोहादीनि तु प्रमुखानि प्रयोजनानि, आनुषङ्गिकानि चेतराणि। एवं बहूनि व्याकरणस्य प्रयोजनानि प्रदर्शितानि, विशेषावगतिकुतूहलिभिस्तु तानि तत्रैवानुसन्धेयानि।
Additional information
Weight | 1575 g |
---|---|
Dimensions | 22 × 14 × 8 cm |
Only logged in customers who have purchased this product may leave a review.
Reviews
There are no reviews yet.